अमरकोशः


श्लोकः

मदिरा कश्यमद्ये अप्यवदंशस्तु भक्षणम् । शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मदिरा मदिरा स्त्रीलिङ्गः माद्यत्यनया । किरच् उणादिः आकारान्तः
2 कश्य कश्यम् नपुंसकलिङ्गः कश्यते । बाहुलकात् अकारान्तः
3 मद्य मद्यम् नपुंसकलिङ्गः माद्यन्त्यनेन । यत् कृत् अकारान्तः
4 अवदंश अवदंशः पुंलिङ्गः अवदश्यते । घञ् कृत् अकारान्तः
5 शुण्डा शुण्डा स्त्रीलिङ्गः शुन्यते । उणादिः आकारान्तः
6 पान पानम् नपुंसकलिङ्गः पिबन्त्यत्र । ल्युट् कृत् अकारान्तः
7 मदस्थान मदस्थानम् नपुंसकलिङ्गः मदस्य स्थानम् ॥ तत्पुरुषः समासः अकारान्तः
8 मधुवार मधुवारः पुंलिङ्गः मधुनो वारः ॥ तत्पुरुषः समासः अकारान्तः
9 मधुक्रम मधुक्रमः पुंलिङ्गः मधुनः क्रमः ॥ तत्पुरुषः समासः अकारान्तः