अमरकोशः


श्लोकः

सव्येष्ट्रदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः । रथिनः स्यन्दनारोहाः अश्वारोहास्तु सादिनः ॥ ६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सव्येष्ठृ सव्येष्ठा पुंलिङ्गः सव्ये वामे तिष्ठति । ऋन् उणादिः ऋकारान्तः
2 दक्षिणस्थ दक्षिणस्थः पुंलिङ्गः दक्षिणे तिष्ठति । कृत् अकारान्तः
3 रथिन् रथिनः पुंलिङ्गः रथोऽस्यास्ति । इनि तद्धितः नकारान्तः
4 स्यन्दनारोह स्यन्दनारोहाः पुंलिङ्गः स्यन्दनमारोहन्ति । अप् कृत् अकारान्तः
5 अश्वारोह अश्वारोहाः पुंलिङ्गः अश्वमारोहन्ति प्राग्वत् ॥ अप् कृत् अकारान्तः
6 सादिन् सादिनः पुंलिङ्गः सीदन्त्यवश्यम् । णिनि कृत् नकारान्तः