अमरकोशः


श्लोकः

आरेवतव्याधिघातकृतमालसुवर्णकाः । स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आरेवत आरेवतः पुंलिङ्गः आरेवयति नि:सारयति मलं सारकत्वात् । अकारान्तः
2 व्याधिघात व्याधिघातः पुंलिङ्गः व्याधीन् हन्ति । अण् कृत् अकारान्तः
3 कृतमाल कृतमालः पुंलिङ्गः व्याधीन् हन्ति । अकारान्तः
4 सुवर्णक सुवर्णकः पुंलिङ्गः शोभनो वर्णोऽस्य । बहुव्रीहिः समासः अकारान्तः
5 जम्बीर जम्बीरः पुंलिङ्गः जम्यते । ईरन् उणादिः अकारान्तः
6 दन्तशठ दन्तशठः पुंलिङ्गः दन्तानां शठ इव । तत्पुरुषः समासः अकारान्तः
7 जम्भ जम्भः पुंलिङ्गः जम्भयत्यम्लत्वात् । अच् कृत् अकारान्तः
8 जम्भीर जम्भीरः पुंलिङ्गः गम्भीरादित्वात् ईरन् उणादिः अकारान्तः
9 जम्भल जम्भलः पुंलिङ्गः कलच् उणादिः अकारान्तः