अमरकोशः


श्लोकः

लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ । स्यात्संदेशहरो दूतो दूत्यं तद्भावकर्मणि ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लिपि लिपिः स्त्रीलिङ्गः लिप्यते । इक् कृत् इकारान्तः
2 लिबि लिबिः स्त्रीलिङ्गः लिप्यते । इन् उणादिः इकारान्तः
3 सन्देशहर सन्देशहरः पुंलिङ्गः संदेशं वाचिकं हरति । अच् कृत् अकारान्तः
4 दूत दूतः पुंलिङ्गः दवति । क्त कृत् अकारान्तः
5 दूत्य दूत्यम् नपुंसकलिङ्गः दूतस्य भावः कर्म वा । तद्धितः अकारान्तः