अमरकोशः


श्लोकः

समूहनिवहव्यूहसन्दोहविसरव्रजाः । स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समूह समूहः पुंलिङ्गः समूह्यते । घञ् कृत् अकारान्तः
2 निवह निवहः पुंलिङ्गः नितरामुह्यते । कृत् अकारान्तः
3 व्यूह व्यूहः पुंलिङ्गः व्यूह्यते । घञ् कृत् अकारान्तः
4 संदोह संदोहः पुंलिङ्गः संदुह्यते । घञ् कृत् अकारान्तः
5 विसर विसरः पुंलिङ्गः विसरति । अच् कृत् अकारान्तः
6 व्रज व्रजः पुंलिङ्गः व्रजति । अच् कृत् अकारान्तः
7 स्तोम स्तोमः पुंलिङ्गः स्तूयते । मन् उणादिः अकारान्तः
8 ओघ ओघः पुंलिङ्गः आ उह्यतेऽनेन । घञ् कृत् अकारान्तः
9 निकर निकरः पुंलिङ्गः निकीर्यते । अप् कृत् अकारान्तः
10 व्रात व्रातः पुंलिङ्गः व्रत्यते नियम्यते । घञ् कृत् अकारान्तः
11 वार वारः पुंलिङ्गः वार्यते आच्छाद्यतेऽनेन । कृत् अकारान्तः
12 संघात संघातः पुंलिङ्गः संहन्यते । घञ् कृत् अकारान्तः
13 संचय संचयः पुंलिङ्गः संचीयते । एरच् कृत् अकारान्तः