अमरकोशः


श्लोकः

वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः । सत्कृता वारमुख्या स्यात् कुट्टनी शम्भली समे ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वारस्त्री वारस्त्री स्त्रीलिङ्गः वारस्य वृन्दस्य स्त्री साधारणत्वात् ॥ तत्पुरुषः समासः ईकारान्तः
2 गणिका गणिका स्त्रीलिङ्गः गणः समूहोऽस्त्यस्याः । ठन् तद्धितः आकारान्तः
3 वेश्या वेश्या स्त्रीलिङ्गः वेशेन नेपथ्येन शोभते । यत् तद्धितः आकारान्तः
4 रूपाजीवा रूपाजीवा स्त्रीलिङ्गः रूपमाजीवोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः
5 वारमुख्या वारमुख्या स्त्रीलिङ्गः वारे वेश्यावृन्दे मुख्या ॥ तत्पुरुषः समासः आकारान्तः
6 कुट्टनी कुट्टनी स्त्रीलिङ्गः कुट्टयति । ल्युट् कृत् ईकारान्तः
7 शम्भली शम्भली स्त्रीलिङ्गः शं सुखं भलते । अच् कृत् ईकारान्तः