अमरकोशः


श्लोकः

ऐरावतो नागरङ्गः नादेयी भूमिजम्बुका । तिन्दुक: स्फूर्जक: कालस्कन्धश्च शितिसारके ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऐरावत ऐरावतः पुंलिङ्गः अण् तद्धितः अकारान्तः
2 नागरङ्ग नागरङ्गः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
3 नादेयी नादेयी स्त्रीलिङ्गः ढक् तद्धितः ईकारान्तः
4 भूमिजम्बुका भूमिजम्बुका स्त्रीलिङ्गः तत्पुरुषः समासः आकारान्तः
5 तिन्दुक तिन्दुकः पुंलिङ्गः कु उणादिः अकारान्तः
6 स्फूर्जक स्फूर्जकः पुंलिङ्गः ण्वुल् कृत् अकारान्तः
7 कालस्कन्ध कालस्कन्धः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
8 शितिसारक शितिसारकः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः