अमरकोशः


श्लोकः

इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः । मदोत्कटो मदकलः कलभः करिशावकः ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इभ इभः पुंलिङ्गः ईयते वा । उणादिः अकारान्तः
2 स्तम्बेरम स्तम्बेरमः पुंलिङ्गः स्तम्बे रमते । अच् कृत् अकारान्तः
3 पद्मिन् पद्मी पुंलिङ्गः पद्मं बिन्दुजालमस्त्यस्य । इनि तद्धितः नकारान्तः
4 यूथनाथ यूथनाथः पुंलिङ्गः यूथस्य हस्तिवृन्दस्य नाथः ॥ तत्पुरुषः समासः अकारान्तः
5 युथप युथपः पुंलिङ्गः यूथं पाति । कृत् अकारान्तः
6 मदोत्कट मदोत्कटः पुंलिङ्गः मदेन दानाम्बुनोत्कटो मत्तः ॥ तत्पुरुषः समासः अकारान्तः
7 मदकल मदकलः पुंलिङ्गः मदेन कलते । अच् कृत् अकारान्तः
8 कलभ कलभः पुंलिङ्गः कलयति । अभच् उणादिः अकारान्तः
9 करिशावक करिशावकः पुंलिङ्गः करिणः शावकः ॥ तत्पुरुषः समासः अकारान्तः