अमरकोशः


श्लोकः

पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः । पाटलि: पाटला मोघा काचस्थाली फलेरुहा ॥ ५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पूतिकाष्ठ पूतिकाष्ठम् नपुंसकलिङ्गः पूति च तत्काष्ठम् ॥ तत्पुरुषः समासः अकारान्तः
2 देवदारु देवदारु पुंलिङ्गः, नपुंसकलिङ्गः देवस्य दारु ॥ तत्पुरुषः समासः उकारान्तः
3 पाटलि पाटलिः पुंलिङ्गः, स्त्रीलिङ्गः पाश्चासौ टलिश्च ॥ तत्पुरुषः समासः इकारान्तः
4 पाटला पाटला स्त्रीलिङ्गः पाटं लाति । तत्पुरुषः समासः आकारान्तः
5 अमोघा अमोघा स्त्रीलिङ्गः न मोघा । तत्पुरुषः समासः आकारान्तः
6 काचस्थाली काचस्थाली स्त्रीलिङ्गः काचस्य कार्ष्ण्यस्य स्थाली पात्रम् ॥ तत्पुरुषः समासः ईकारान्तः
7 फलेरुहा फलेरुहा स्त्रीलिङ्गः फले रोहति । तत्पुरुषः समासः आकारान्तः