अमरकोशः


श्लोकः

पत्त्रं पलाशं छदनं दलं पर्णं छदः पुमान् । पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पत्र पत्रम् नपुंसकलिङ्गः पतति । ष्ट्रन् उणादिः अकारान्तः
2 पलाश पलाशम् नपुंसकलिङ्गः पलं मांसमश्नाति । अण् कृत् अकारान्तः
3 छदन छदनम् नपुंसकलिङ्गः छद्यतेऽनेन । ल्युट् कृत् अकारान्तः
4 दल दलम् नपुंसकलिङ्गः दलति । अच् कृत् अकारान्तः
5 पर्ण पर्णम् नपुंसकलिङ्गः पिपर्ति । उणादिः अकारान्तः
6 छद छदः पुंलिङ्गः छद्यतेऽनेन । कृत् अकारान्तः
7 पल्लव पल्लवः पुंलिङ्गः, नपुंसकलिङ्गः पल्यते । अप् कृत् अकारान्तः
8 किसलय किसलयम् नपुंसकलिङ्गः किंचित्सलति । क्यन् बाहुलकात् अकारान्तः
9 विस्तार विस्तारः पुंलिङ्गः विस्तरणम् । घञ् कृत् अकारान्तः
10 विटप विटपः पुंलिङ्गः, नपुंसकलिङ्गः विटान् पाति । कृत् अकारान्तः