अमरकोशः


श्लोकः

पिच्छा तु शाल्मलीवेष्टे रोचन: कूटशाल्मलिः । चिरविल्वो नक्तमाल: करजश्च करञ्जके ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पिच्छा पिच्छा स्त्रीलिङ्गः पतितुमिच्छति । आकारान्तः
2 शाल्मलीवेष्ट शाल्मलीवेष्टः पुंलिङ्गः शाल्मल्या वेष्टः । तत्पुरुषः समासः अकारान्तः
3 रोचन रोचनः पुंलिङ्गः युच् कृत् अकारान्तः
4 कुटशाल्मलि कुटशाल्मलिः पुंलिङ्गः तत्पुरुषः समासः इकारान्तः
5 चिरिबिल्व चिरिबिल्वः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
6 नक्तमाल नक्तमालः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
7 करज करजः पुंलिङ्गः कृत् अकारान्तः
8 करञ्जक करञ्जकः पुंलिङ्गः कन् तद्धितः अकारान्तः