अमरकोशः


श्लोकः

तित्तिरि: कुक्कुभो लावो जीवंजीवश्चकोरकः । कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तित्तिरि तित्तिरिः पुंलिङ्गः तित्तिशब्दं’ राति । कि बाहुलकात् इकारान्तः
2 कुक्कुभ कुक्कुभः पुंलिङ्गः ‘कुक्’ इति शब्दं कौति । भक् बाहुलकात् अकारान्तः
3 लाव लावः पुंलिङ्गः लावयति । अच् कृत् अकारान्तः
4 जीवंजीव जीवंजीवः पुंलिङ्गः जीवं जीवयति । खच् कृत् अकारान्तः
5 चकोरक चकोरकः पुंलिङ्गः चकति । ओरन् उणादिः अकारान्तः
6 कोयष्टिक कोयष्टिकः पुंलिङ्गः कं जलं यष्टिरिवास्य । बहुव्रीहिः समासः अकारान्तः
7 टिट्टिभक टिट्टिभकः पुंलिङ्गः ‘टिट्टि’ शब्दं भाषते । कृत् अकारान्तः
8 वर्तक वर्तकः पुंलिङ्गः वर्तते । ण्वुल् कृत् अकारान्तः
9 वर्तिका वर्तिका स्त्रीलिङ्गः वर्तते । टाप् स्त्रीप्रत्ययः आकारान्तः