अमरकोशः


श्लोकः

स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् । वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभ्यागारिक अभ्यागारिकः पुंलिङ्गः अभ्यागारे नियुक्तः । ठन् तद्धितः अकारान्तः
2 उपाधि उपाधिः पुंलिङ्गः आधानमाधिः । किः कृत् इकारान्तः
3 सिंहसंहनन सिंहसंहननः पुंलिङ्गः सिंहं श्रेष्ठं संहननमस्य । बहुव्रीहिः समासः अकारान्तः