अमरकोशः


श्लोकः

तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका । आस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तैजसावर्तिनी तैजसावर्तिनी स्त्रीलिङ्गः तेजसो विकारः सुवर्णादिरावर्त्यतेऽस्याम् । ल्युट् कृत् ईकारान्तः
2 मूषा मूषा स्त्रीलिङ्गः मूषति । कृत् आकारान्तः
3 भस्त्रा भस्त्रा स्त्रीलिङ्गः भस्यतेऽनया । त्रन् उणादिः आकारान्तः
4 चर्मप्रसेविका चर्मप्रसेविका स्त्रीलिङ्गः चर्मणा प्रसीव्यते । वुन् उणादिः आकारान्तः
5 आस्फोटनी आस्फोटनी स्त्रीलिङ्गः आस्फोट्यतेऽनया । ल्युट् कृत् ईकारान्तः
6 वेधनिका वेधनिका स्त्रीलिङ्गः विध्यतेऽनया । ल्युट् कृत् आकारान्तः
7 कृपाणी कृपाणी स्त्रीलिङ्गः कृपामणति । अण् कृत् ईकारान्तः
8 कर्तरी कर्तरी स्त्रीलिङ्गः कृन्तति । अर बाहुलकात् ईकारान्तः