अमरकोशः


श्लोकः

संक्षेपणं समसनं पर्यवस्था विरोधनम् । परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संक्षेपण संक्षेपणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 समसन समसनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 पर्यवस्था पर्यवस्था स्त्रीलिङ्गः पर्यवस्थानम् अङ् कृत् आकारान्तः
4 विरोधन विरोधनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 परिसर्या परिसर्या स्त्रीलिङ्गः परिसरणम् निपातनात् आकारान्तः
6 परीसार परीसारः पुंलिङ्गः घञ् कृत् अकारान्तः
7 आस्या आस्या स्त्रीलिङ्गः आसनम् ण्यत् कृत् आकारान्तः
8 आसना आसना स्त्रीलिङ्गः युच् कृत् आकारान्तः
9 स्थिति स्थितिः स्त्रीलिङ्गः स्थानम् क्तिन् कृत् इकारान्तः