अमरकोशः


श्लोकः

कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । ऐरावत: पुण्डरीको वामनः कुमदोऽञ्जन: ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुबेर कुबेरः पुंलिङ्गः कुत्सितं बेरं शरीरमस्य ।  बहुव्रीहिः समासः अकारान्तः
2 ईश ईशः पुंलिङ्गः ईष्टे । कृत् अकारान्तः
3 ऐरावत ऐरावतः पुंलिङ्गः इरा उदकानि सन्त्यस्मिन् ।  अण् तद्धितः अकारान्तः
4 पुण्डरीक पुण्डरीकः पुंलिङ्गः पुण्डरीकवर्णयोगात् । अच् तद्धितः अकारान्तः
5 वामन वामनः पुंलिङ्गः खर्वत्वाद्वामनः ल्युट् कृत् अकारान्तः
6 कुमुद कुमुदः पुंलिङ्गः कुमुदं रक्तोत्पलं तत्तुल्यवर्णत्वात् । अच् तद्धितः अकारान्तः
7 अञ्चन अञ्चनः पुंलिङ्गः अञ्जनवर्णत्वात् अञ्जनः । अच् तद्धितः अकारान्तः