अमरकोशः


श्लोकः

सहस्रवेधि जतुकं वाल्हीकं हिङ्गु रामठम् । तत्पत्त्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सहस्रवेधि सहस्रवेधिम् नपुंसकलिङ्गः सहस्रं वेधितुं शीलमस्य । णिनि कृत् इकारान्तः
2 जतुक जतुकम् नपुंसकलिङ्गः कन् कृत् अकारान्तः
3 वाल्हीक वाल्हीकम् नपुंसकलिङ्गः वल्हीकेषु भवम् । अण् तद्धितः अकारान्तः
4 हिङ्गु हिङ्गुम् नपुंसकलिङ्गः हिनोति । कु उणादिः उकारान्तः
5 रामठ रामठम् नपुंसकलिङ्गः रामठदेशोद्भवत्वादुपचारः । अठ उणादिः अकारान्तः
6 तत्पत्त्री तत्पत्त्री स्त्रीलिङ्गः तस्य हिङ्गुतरोः पत्त्री । तत्पुरुषः समासः ईकारान्तः
6 कारवी कारवी स्त्रीलिङ्गः कारं वाति । कृत् ईकारान्तः
7 पृथ्वी पृथ्वी स्त्रीलिङ्गः प्रथते । कु उणादिः ईकारान्तः
8 बाष्पिका बाष्पिका स्त्रीलिङ्गः बाष्पमिव । कन् तद्धितः आकारान्तः
9 कवरी कवरी स्त्रीलिङ्गः ङीष् स्त्रीप्रत्ययः ईकारान्तः
11 पृथु पृथुः स्त्रीलिङ्गः कु उणादिः उकारान्तः