अमरकोशः


श्लोकः

पञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता । पिटकः पेटकः पेटा मञ्जूषाऽथ विहङ्गिका ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पञ्चालिका पञ्चालिका स्त्रीलिङ्गः पञ्चभिर्वर्णैरल्यते । घञ् कृत् आकारान्तः
2 पुत्रिका पुत्रिका स्त्रीलिङ्गः पुत्रीव । कन् कृत् आकारान्तः
3 पिटक पिटकः पुंलिङ्गः पेटति । क्वुन् उणादिः अकारान्तः
4 पेटक पेटकः पुंलिङ्गः पेटति । ण्वुल् कृत् अकारान्तः
5 पेटा पेटा स्त्रीलिङ्गः तत्र पिण्डते । अच् कृत् आकारान्तः
6 मञ्जूषा मञ्जूषा स्त्रीलिङ्गः मञ्जति, अत्र वा । ऊषन् उणादिः आकारान्तः
7 विहंगिका विहंगिका स्त्रीलिङ्गः विहङ्गस्य प्रतिकृतिः । कन् तद्धितः आकारान्तः