अमरकोशः


श्लोकः

प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् । नृपासनं तु यद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रक्रिया प्रक्रिया स्त्रीलिङ्गः प्रकर्षाय करणम् । कृत् आकारान्तः
2 अधिकार अधिकारः पुंलिङ्गः आधिक्यस्य करणम् । घञ् कृत् अकारान्तः
3 चामर चामरम् नपुंसकलिङ्गः चमति, चम्यते, वा । अण् तद्धितः अकारान्तः
4 प्रकीर्णक प्रकीर्णकम् नपुंसकलिङ्गः प्रकीर्यते स्म । क्त कृत् अकारान्तः
5 नृपासन नृपासनम् नपुंसकलिङ्गः नृपस्यासनम् ॥ तत्पुरुषः समासः अकारान्तः
6 भद्रासन भद्रासनम् नपुंसकलिङ्गः भद्रं च तदासनम् ॥ तत्पुरुषः समासः अकारान्तः
7 सिंहासन सिंहासनम् नपुंसकलिङ्गः सिंह इव वासनम् तत्पुरुषः समासः अकारान्तः