अमरकोशः


श्लोकः

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् । भयंकरं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दारुण दारुणम् नपुंसकलिङ्गः दारयति चित्तम् । उनन् उणादिः अकारान्तः
2 भीषण भीषणम् नपुंसकलिङ्गः भीषयते । युच् कृत् अकारान्तः
3 भीष्म भीष्मम् नपुंसकलिङ्गः बिभेत्यस्मात् भियः मक् उणादिः अकारान्तः
4 घोर घोरम् नपुंसकलिङ्गः घोरयति । अच् कृत् अकारान्तः
5 भीम भीमम् नपुंसकलिङ्गः मक् उणादिः अकारान्तः
6 भयानक भयानकम् नपुंसकलिङ्गः बिभेत्यस्मात् । आनक उणादिः अकारान्तः
7 भयंकर भयंकरम् नपुंसकलिङ्गः भयं करोति । खच् कृत् अकारान्तः
8 प्रतिभय प्रतिभयम् नपुंसकलिङ्गः प्रतिगतं भयेन । प्रादिसमासः समासः अकारान्तः
9 रौद्र रौद्रम् नपुंसकलिङ्गः रुद्रस्येदम् । अण् तद्धितः अकारान्तः
10 उग्र उग्रम् नपुंसकलिङ्गः रन् उणादिः अकारान्तः