अमरकोशः


श्लोकः

गृहावग्रहणी देहल्यङ्गनं चत्वराजिरे । अधस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गृहावग्रहणी गृहावग्रहणी स्त्रीलिङ्गः गृहमवगृह्यतेऽनया । तत्पुरुषः समासः ईकारान्तः
2 देहली देहली स्त्रीलिङ्गः देहं गोमयाद्युपलेपं लाति । तत्पुरुषः समासः ईकारान्तः
3 अङ्गण अङ्गणम् नपुंसकलिङ्गः अङ्गत्यत्र । ल्युट् कृत् अकारान्तः
4 चत्वर चत्वरम् नपुंसकलिङ्गः चत्यते । ष्वरच् उणादिः अकारान्तः
5 अजिर अजिरम् नपुंसकलिङ्गः अजन्त्यत्र । किरच् उणादिः अकारान्तः
6 शिला शिला स्त्रीलिङ्गः शिलति । कृत् आकारान्तः
7 नासा नासा स्त्रीलिङ्गः नास्यते । कृत् आकारान्तः