अमरकोशः


श्लोकः

सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् । परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वाहन वाहनम् नपुंसकलिङ्गः वाहयति । ल्युट् कृत् अकारान्तः
2 यान यानम् नपुंसकलिङ्गः यान्त्यनेन । ल्युट् कृत् अकारान्तः
3 युग्य युग्यम् नपुंसकलिङ्गः युज्यते अनेन वा । क्यप् कृत् अकारान्तः
4 पत्र पत्रम् नपुंसकलिङ्गः पतन्त्यनेन ष्ट्रन् कृत् अकारान्तः
5 धोरण धोरणम् नपुंसकलिङ्गः धोरति । ल्यु कृत् अकारान्तः
6 वैनीतक वैनीतकः पुंलिङ्गः, नपुंसकलिङ्गः विनीतकानामिदम् । अण् तद्धितः अकारान्तः