अमरकोशः


श्लोकः

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् । दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नक्षत्र नक्षत्त्रम् नपुंसकलिङ्गः न क्षदते हिनस्ति । नञ्-तत्पुरुषः समासः अकारान्तः
2 ऋक्ष ऋक्षम् नपुंसकलिङ्गः ऋषति । उणादिः अकारान्तः
3 भम् नपुंसकलिङ्गः भाति । कृत् अकारान्तः
4 तारा तारा स्त्रीलिङ्गः तरन्त्यनया । अङ् कृत् आकारान्तः
5 तारका तारका स्त्रीलिङ्गः तरन्त्यनया । ण्वुल् कृत् आकारान्तः
6 उडु उडुः स्त्रीलिङ्गः, नपुंसकलिङ्ग तत्पुरुषः समासः उकारान्तः
7 दाक्षायणी दाक्षायणी स्त्रीलिङ्गः दक्षस्यापत्यानि । फिञ् तद्धितः ईकारान्तः
8 अश्वयुज् अश्वयुक् स्त्रीलिङ्गः अश्वं युनक्ति रूपेणानुकरोति । तत्पुरुषः समासः जकारान्तः
9 अश्विनी अश्विनी स्त्रीलिङ्गः अश्वः अश्वरूपमस्त्यस्याः । इनि तद्धितः ईकारान्तः