अमरकोशः


श्लोकः

कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी । चण्डा धनहरी क्षेमदुष्पत्रगणहासका: ॥ १२८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुणि कुणिः पुंलिङ्गः कुणति । इन् उणादिः इकारान्तः
2 कच्छ कच्छः पुंलिङ्गः कचति । बाहुलकात् अकारान्तः
3 कान्तलक कान्तलकः पुंलिङ्गः कान्तश्चासौ लकश्च ॥ तत्पुरुषः समासः अकारान्तः
4 नन्दिवृक्ष नन्दिवृक्षः पुंलिङ्गः नन्द्या वृक्षः ॥ तत्पुरुषः समासः अकारान्तः
5 राक्षसी राक्षसी स्त्रीलिङ्गः रक्षस इयम् । अण् तद्धितः ईकारान्तः
6 चण्डा चण्डा स्त्रीलिङ्गः चण्डते । अच् कृत् आकारान्तः
7 धनहरी धनहरी स्त्रीलिङ्गः धनं हरति तत्पुरुषः समासः ईकारान्तः
8 क्षेम क्षेमः पुंलिङ्गः क्षिणोति । मन् उणादिः अकारान्तः
9 दुष्पत्र दुष्पत्रः पुंलिङ्गः दुष्टानि पत्राण्यस्य ॥ बहुव्रीहिः समासः अकारान्तः
10 गणहासक गणहासकः पुंलिङ्गः गणं हासयति । तत्पुरुषः समासः अकारान्तः