अमरकोशः


श्लोकः

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रिया: । पेशी कोषो द्विहीनेऽण्डं कुलायो नीडमस्रियाम् ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रडीन प्रडीनः नपुंसकलिङ्गः प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । क्त कृत् अकारान्तः
2 उड्डीन उड्डीनम् नपुंसकलिङ्गः प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । क्त कृत् अकारान्तः
3 संडीन संडीनम् नपुंसकलिङ्गः प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । क्त कृत् अकारान्तः
4 पेशी पेशी स्त्रीलिङ्गः पिंशति । इन् उणादिः ईकारान्तः
5 कोष कोषः पुंलिङ्गः कुष्यति निष्क्रामत्यस्मात्स्वयमेव । घञ् कृत् अकारान्तः
6 अण्ड अण्डम् नपुंसकलिङ्गः उणादिः अकारान्तः
7 कुलाय कुलायः पुंलिङ्गः कुलं पक्षिसंतानोऽयतेऽत्र । घञ् कृत् अकारान्तः
8 नीड नीडः पुंलिङ्गः, नपुंसकलिङ्गः नितराम् ईड्यते । घञ् कृत् अकारान्तः