अमरकोशः


श्लोकः

ऋषयः सत्यवचसः स्नातकस्त्वाप्लवव्रती । ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋषि ऋषिः पुंलिङ्गः, स्त्रीलिङ्गः ऋषन्ति जानन्ति । इन् उणादिः इकारान्तः
2 सत्यवचस् सत्यवचस् पुंलिङ्गः सत्यं वचो येषाम् ॥ बहुव्रीहिः समासः सकारान्तः
3 स्नातक स्नातकः पुंलिङ्गः स्नाति स्म । क्त कृत् अकारान्तः
4 आप्लवव्रतिन् आप्लवव्रती पुंलिङ्गः आ प्लवते । अच् कृत् नकारान्तः
5 यतिन् यतिनः पुंलिङ्गः यमनम् । इनि तद्धितः नकारान्तः
6 यति यतयः पुंलिङ्गः यतन्ते इन् उणादिः इकारान्तः