अमरकोशः


श्लोकः

कर्चूरको द्राविडकः काल्पको वेधमुख्यकः । ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कर्चूरक कर्चूरकः पुंलिङ्गः कर्जति । ऊर उणादिः अकारान्तः
2 द्राविडक द्राविडकः पुंलिङ्गः द्रविडे देशे जातः । अण् तद्धितः अकारान्तः
3 काल्पक काल्पकः पुंलिङ्गः कल्पे विधौ भवः । अण् तद्धितः अकारान्तः
4 वेधमुख्यक वेधमुख्यकः पुंलिङ्गः वेधे मुख्यः। कन् तद्धितः अकारान्तः
5 औषध औषधम् नपुंसकलिङ्गः ओषेति । अण् तद्धितः अकारान्तः