अमरकोशः


श्लोकः

तूष्णींशीलस्तु तूष्णीक: नग्नोऽवासा दिगम्बरः । निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तूष्णींशील तूष्णींशीलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तूष्णीं शीलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 तूष्णीक तूष्णीकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तूष्णीं शीलमस्य ॥ तद्धितः अकारान्तः
3 नग्न नग्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नजते स्म । क्त कृत् अकारान्तः
4 अवसस् अवसस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न वासोऽस्य ॥ बहुव्रीहिः समासः सकारान्तः
5 दिगम्बर दिगम्बरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दिगेवाम्बरं यस्य बहुव्रीहिः समासः अकारान्तः
6 निष्कासित निष्कासितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नीति निष्कास्यते स्म क्त कृत् अकारान्तः
7 अवकृष्ट अवकृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवकृष्यते स्म क्त कृत् अकारान्तः
8 अपध्वस्त अपध्वस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपध्वस्यते स्म क्त कृत् अकारान्तः
9 धिक्कृत धिक्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धिक्’इति कृतः तत्पुरुषः समासः अकारान्तः