अमरकोशः


श्लोकः

पिशितं तरसं मांसं पललं क्रव्यमामिषम् । उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पिशित पिशितम् नपुंसकलिङ्गः पिंशति । इतन् उणादिः अकारान्तः
2 तरस तरसम् नपुंसकलिङ्गः अच् तद्धितः अकारान्तः
3 मांस मांसम् नपुंसकलिङ्गः मन्यते । उणादिः अकारान्तः
4 पलल पललम् नपुंसकलिङ्गः पलति, पल्यते वा । कल उणादिः अकारान्तः
5 क्रव्य क्रव्यम् नपुंसकलिङ्गः क्लवते । यत् कृत् अकारान्तः
6 आमिष आमिषम् नपुंसकलिङ्गः आमिषति । कृत् अकारान्तः
7 उत्तप्त उत्तप्तम् नपुंसकलिङ्गः उत्तप्यते स्म । क्त कृत् अकारान्तः
8 शुष्कमांस शुष्कमांसम् नपुंसकलिङ्गः शुष्कं च तन्मांसं च ॥ तत्पुरुषः समासः अकारान्तः
9 वल्लूर वल्लूरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वल्लते, वल्ल्यते वा ऊर उणादिः अकारान्तः