अमरकोशः


श्लोकः

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः । पशवोऽपि मृगाः वेग: प्रवाहजवयोरपि ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पतङ्ग पतङ्गः पुंलिङ्गः पतति अङ्गच् उणादिः अकारान्तः
2 पूग पूगः पुंलिङ्गः पुनाति गन् उणादिः अकारान्तः
3 मृग मृगः पुंलिङ्गः मृग्यते घञ् कृत् अकारान्तः
4 वेग वेगः पुंलिङ्गः वेजनम् घञ् कृत् अकारान्तः