अमरकोशः


श्लोकः

तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि । वर्वरा कवरी तुङ्गी खरपुष्पाजगन्धिका ॥ १३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तुण्डिकेरी तुण्डिकेरी स्त्रीलिङ्गः तुण्डं चञ्चुरस्ति येषाम् ठन् तद्धितः ईकारान्तः
2 रक्तफला रक्तफला स्त्रीलिङ्गः रक्तं फलमस्याः । बहुव्रीहिः समासः आकारान्तः
3 बिम्बिका बिम्बिका स्त्रीलिङ्गः बिम्बीं कायति । कृत् आकारान्तः
4 पीलुपर्णी पीलुपर्णी स्त्रीलिङ्गः पीलोरिव पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
5 वर्वरा वर्वरा स्त्रीलिङ्गः वृणोति । ष्वरच् उणादिः आकारान्तः
6 कवरी कवरी स्त्रीलिङ्गः कस्य शिरसो वरी । तत्पुरुषः समासः ईकारान्तः
7 तुङ्गी तुङ्गी स्त्रीलिङ्गः तुञ्जति । अच् कृत् ईकारान्तः
8 खरपुष्पा खरपुष्पा स्त्रीलिङ्गः खरं पुष्पमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
9 अजगन्धिका अजगन्धिका स्त्रीलिङ्गः अजस्येव गन्धोऽस्याः । बहुव्रीहिः समासः आकारान्तः