अमरकोशः


श्लोकः

रचना स्यात्परिस्पन्दः आभोगः परिपूर्णता । उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ १३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रचना रचना स्त्रीलिङ्गः युच् कृत् आकारान्तः
2 परिस्पन्द परिस्पन्दः पुंलिङ्गः परिस्पन्दनम् । घञ् कृत् अकारान्तः
3 आभोग आभोगः पुंलिङ्गः आभोजनम् । घञ् कृत् अकारान्तः
4 परिपूर्णता परिपूर्णता स्त्रीलिङ्गः परितः पूर्यते स्म । क्त कृत् आकारान्तः
5 उपधान उपधानम् नपुंसकलिङ्गः उपधीयते शिरोऽत्र । ल्युट् कृत् अकारान्तः
6 उपबर्ह उपबर्हः पुंलिङ्गः उपवृह्यतेऽत्र । घञ् कृत् अकारान्तः
7 शय्या शय्या स्त्रीलिङ्गः शय्यतेऽत्र । क्यप् कृत् आकारान्तः
8 शयनीय शयनीयम् नपुंसकलिङ्गः अनीयर् कृत् अकारान्तः