अमरकोशः


श्लोकः

ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः । मैत्त्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ध्रुव ध्रुवः पुंलिङ्गः ध्रुवति स्थिरो भवति । अच् कृत् अकारान्तः
2 औत्तानपादि औत्तानपादिः पुंलिङ्गः उत्तानपादस्यापत्यम् । इञ् तद्धितः इकारान्तः
3 अगत्स्य अगस्त्यः पुंलिङ्गः अगं विन्ध्यं स्त्यायति स्तभ्नोति । कृत् अकारान्तः
4 कुम्भसम्भव कुम्भसम्भवः पुंलिङ्गः कुम्भः सम्भव उत्पत्तिस्थानमस्य । बहुव्रीहिः समासः अकारान्तः
5 मैत्रावरुणि मैत्रावरुणिः पुंलिङ्गः मित्रावरुणयोः सूनुरौर्वशेयश्च वारुणिः’ इति व्याडिः । अण् तद्धितः इकारान्तः
6 लोपामुद्रा लोपामुद्रा स्त्रीलिङ्गः लोपे धर्मलोपे अमुद्रा = हर्षं न लभते इत्यर्थः । कृत् आकारान्तः
7 सधर्मिणी सधर्मिणी स्त्रीलिङ्गः सधर्मिन् बहुव्रीहिः समासः ईकारान्तः