अमरकोशः


श्लोकः

उत्साहवर्धनो वीर: कारुण्यं करुणा घृणा । कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उत्साहवर्धन उत्साहवर्धनः पुंलिङ्गः उत्साहेन वर्धते । युच् कृत् अकारान्तः
2 वीर वीरः पुंलिङ्गः वीरयति । रक् उणादिः अकारान्तः
3 कारुण्य कारुण्यम् नपुंसकलिङ्गः करुण: करुणावान् । तस्य भावः । ष्यञ् तद्धितः अकारान्तः
4 करुण करुणा स्त्रीलिङ्गः करणम् । उनन् उणादिः अकारान्तः
5 घृणा घृणा स्त्रीलिङ्गः घ्रियन्तेऽनया । नक् बाहुलकात् आकारान्तः
6 कृपा कृपा स्त्रीलिङ्गः क्रपणम् । अङ् आकारान्तः
7 दया दया स्त्रीलिङ्गः दयते रक्षत्यनया । अङ् कृत् आकारान्तः
8 अनुकम्पा अनुकम्पा स्त्रीलिङ्गः अनुकम्पनम् । अः कृत् आकारान्तः
9 अनुक्रोश अनुक्रोशः पुंलिङ्गः अनुक्रोशन्त्यनेन । घञ् कृत् अकारान्तः
10 हस हसः पुंलिङ्गः हसनम् । अप् कृत् अकारान्तः