अमरकोशः


श्लोकः

मौर्व्यां द्रव्याश्रिते सत्त्वशुक्लसंध्यादिके गुणः । निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षण: ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गुण गुणः पुंलिङ्गः गुण्यते घञ् कृत् अकारान्तः
2 क्षण क्षणः पुंलिङ्गः क्षणोति अच् कृत् अकारान्तः