अमरकोशः


श्लोकः

त्सरु: खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् । फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्सरु त्सरुः पुंलिङ्गः त्सरति । उणादिः उकारान्तः
2 मेखला मेखला स्त्रीलिङ्गः मां लक्ष्मीमीखति । कलच् बाहुलकात् आकारान्तः
3 फलक फलकः पुंलिङ्गः फलति । वुन् उणादिः अकारान्तः
4 फल फलम् नपुंसकलिङ्गः फलति । अच् कृत् अकारान्तः
5 चर्मन् चर्म नपुंसकलिङ्गः चर्यते वा । मनिन् उणादिः नकारान्तः
6 संग्राह संग्राहः पुंलिङ्गः संगृह्यते । घञ् कृत् अकारान्तः