अमरकोशः


श्लोकः

शरारिराटिराडिश्च बलाका विसकण्ठिका । हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शरारि शरारिः स्त्रीलिङ्गः शरं नीरमृच्छति । उणादिः इकारान्तः
2 आटि आटिः स्त्रीलिङ्गः आ अटति । इन् उणादिः इकारान्तः
3 आडि आडिः स्त्रीलिङ्गः आ अडति । इन् उणादिः इकारान्तः
4 वलाका वलाका स्त्रीलिङ्गः वलते । आक उणादिः आकारान्तः
5 विसकण्ठिका विसकण्ठिका स्त्रीलिङ्गः विसवत् कण्ठोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः
6 वरटा वरटा स्त्रीलिङ्गः वृणीते सेवते सरः । अटन् उणादिः आकारान्तः
7 लक्ष्मणा लक्ष्मणा स्त्रीलिङ्गः लक्ष्मीरस्त्यस्याः । तद्धितः आकारान्तः