अमरकोशः


श्लोकः

आकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नाक नाकः पुंलिङ्गः अकारान्तः
2 लोक लोकः पुंलिङ्गः लोक्यते घञ् कृत् अकारान्तः
3 श्लोक श्लोकः पुंलिङ्गः श्लोक्यते घञ् कृत् अकारान्तः
4 सायक सायकः पुंलिङ्गः स्यति ण्वुल् कृत् अकारान्तः