अमरकोशः


श्लोकः

ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे । घोष आभीरपल्ली स्यात्पक्कणः शवरालयः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्रामान्त ग्रामान्तम् नपुंसकलिङ्गः ग्रामस्यान्तं समीपम् । अकारान्तः
2 उपशल्य उपशल्यम् नपुंसकलिङ्गः शल्यमुपगतः अकारान्तः
3 सीमन् सीमा स्त्रीलिङ्गः सीयते । मनिन् उणादिः नकारान्तः
4 सीमा सीमा स्त्रीलिङ्गः डाप् आकारान्तः
5 घोष घोषः पुंलिङ्गः घोषन्ति गावोऽत्र । घञ् कृत् अकारान्तः
6 आभीरपल्ली आभीरपल्ली स्त्रीलिङ्गः आभीराणां पल्लिः । तत्पुरुषः समासः ईकारान्तः
7 पक्कण पक्कणः पुंलिङ्गः पचः कणा यत्र । अकारान्तः
8 शबरालय शबरालयः पुंलिङ्गः शवं रान्ति शवराः । तेषामालयः ॥ तत्पुरुषः समासः अकारान्तः