अमरकोशः


श्लोकः

पूतिर्गन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् । शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पूतिगन्धि पूतिगन्धिः पुंलिङ्गः पूतिर्दुष्टो गन्धोऽस्य बहुव्रीहिः समासः इकारान्तः
2 दुर्गन्ध दुर्गन्धः पुंलिङ्गः अकारान्तः
3 विस्र विस्रम् नपुंसकलिङ्गः वियति । रक् बाहुलकाद् अकारान्तः
4 आमगन्धिन् आमगन्धि नपुंसकलिङ्गः आमोऽपक्वो मलः । तस्येव गन्धोऽस्य । बहुव्रीहिः समासः नकारान्तः
5 शुक्ल शुक्लः पुंलिङ्गः शोकति मनोऽस्मिन् । समासः अकारान्तः
6 शुभ्र शुभ्रः पुंलिङ्गः शोभते । रक् उणादिः अकारान्तः
7 शुचि शुचिः पुंलिङ्गः इक् कृत् इकारान्तः
8 श्वेत श्वेतः पुंलिङ्गः घञ् कृत् अकारान्तः
9 विशद विशदः पुंलिङ्गः विशीयते । अच् कृत् अकारान्तः
10 श्येत श्येतः पुंलिङ्गः श्यायते । उणादिः अकारान्तः
11 पाण्डर पाण्डरः पुंलिङ्गः पण्डते मनोऽस्मिन् । बाहुलकाद् अकारान्तः