अमरकोशः


श्लोकः

यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च गूढपुरुषश्च आप्तः प्रत्ययितस्त्रिषु ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यथार्हवर्ण यथार्हवर्णः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
2 प्रणिधि प्रणिधिः पुंलिङ्गः प्रकर्षेण निधीयते ज्ञेयमत्र । कि कृत् इकारान्तः
3 अपसर्प अपसर्पः पुंलिङ्गः अपसर्पति । अच् कृत् अकारान्तः
4 चर चरः पुंलिङ्गः चरति । अच् कृत् अकारान्तः
5 स्पश स्पशः पुंलिङ्गः स्पशति । अच् कृत् अकारान्तः
6 चार चारः पुंलिङ्गः चरति । अण् तद्धितः अकारान्तः
7 गूढपुरुष गूढपुरुषः पुंलिङ्गः गूढश्चासौ पुरुषश्च ॥ तत्पुरुषः समासः अकारान्तः
8 आप्त आप्तः पुंलिङ्गः आप्यते स्म । क्त कृत् अकारान्तः
9 प्रत्ययित प्रत्ययितः पुंलिङ्गः प्रत्ययो विश्वासः सञ्जतोऽस्य । इतच् तद्धितः अकारान्तः