अमरकोशः


श्लोकः

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः । दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धीमत् धीमत् पुंलिङ्गः धीरस्यास्ति । मतुप् तद्धितः तकारान्तः
2 सूरि सूरिः पुंलिङ्गः सूते, सूयते, वा । क्रि उणादिः इकारान्तः
3 कृतिन् कृती पुंलिङ्गः प्रशस्तं कृतं कर्मास्य । इनि तद्धितः नकारान्तः
4 कृष्टि कृष्टिः पुंलिङ्गः कर्षति । क्तिच् कृत् इकारान्तः
5 लब्धवर्ण लब्धवर्णः पुंलिङ्गः लब्धो वर्णः स्तुतियैन ॥ बहुव्रीहिः समासः अकारान्तः
6 विचक्षण विचक्षणः पुंलिङ्गः विचष्टे । युच् कृत् अकारान्तः
7 दूरदर्शिन् दूरदर्शिन् पुंलिङ्गः दूरान् दूराद्वा पश्यति । णिनि कृत् नकारान्तः
8 दीर्घदर्शिन् दीर्घदर्शिन् पुंलिङ्गः णिनि कृत् नकारान्तः
9 श्रोत्रिय श्रोत्रियः पुंलिङ्गः घन् तद्धितः अकारान्तः
10 छान्दस छान्दसः पुंलिङ्गः अण् तद्धितः अकारान्तः