अमरकोशः


श्लोकः

सपीति: स्त्री तुल्यपानं सग्धि: स्त्री सहभोजनम् । उदन्या तु पिपासा तृट् तर्ष: जग्धिस्तु भोजनम् ॥ ५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सपीति सपीतिः स्त्रीलिङ्गः समाना पीतिः । क्तिन् स्त्रीप्रत्ययः इकारान्तः
2 तुल्यपान तुल्यपानम् नपुंसकलिङ्गः तुल्यं च यत्पानं च ॥ तत्पुरुषः समासः अकारान्तः
3 सग्धि सग्धिः स्त्रीलिङ्गः क्तिन् स्त्रीप्रत्ययः इकारान्तः
4 सहभोजन सहभोजनम् नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
5 उदन्या उदन्या स्त्रीलिङ्गः उदकस्येच्छा । आकारान्तः
6 पिपासा पिपासा स्त्रीलिङ्गः पातुमिच्छा । सन् सनादिः आकारान्तः
7 तृष् तृट् स्त्रीलिङ्गः तर्षणम् । क्विप् कृत् षकारान्तः
8 तर्ष तर्षः पुंलिङ्गः घञ् कृत् अकारान्तः
9 जग्धि जग्धिः स्त्रीलिङ्गः क्तिन् स्त्रीप्रत्ययः इकारान्तः
10 भोजन भोजनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः