अमरकोशः


श्लोकः

राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः । मलिनैर्मल्लिकाख्यास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 राजहंस राजहंसः पुंलिङ्गः हंसानां राजा । तत्पुरुषः समासः अकारान्तः
2 मल्लिकाख्य मल्लिकाख्यः पुंलिङ्गः ‘मल्लिक’ इति आख्या येषां ते । बहुव्रीहिः समासः अकारान्तः
3 धार्तराष्ट्र धार्तराष्ट्रः पुंलिङ्गः धृतराष्ट्रे भवाः । अण् तद्धितः अकारान्तः