अमरकोशः


श्लोकः

आहावस्तु निपानं स्यादुपकूपजलाशये । पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आहाव आहावः पुंलिङ्गः आहूयन्तेऽत्र । अकारान्तः
2 निपान निपानम् नपुंसकलिङ्गः नियतं पिबन्त्यस्मिन् । ल्युट् कृत् अकारान्तः
3 अन्धु अन्धुः पुंलिङ्गः अम्यते । कुः उणादिः उकारान्तः
4 प्रहि प्रहिः पुंलिङ्गः प्रह्रियते । उणादिः इकारान्तः
5 कूप कूपः पुंलिङ्गः कौति । उणादिः अकारान्तः
6 उदपान उदपानम् पुंलिङ्गः, नपुंसकलिङ्गः उदकं पिबन्त्यस्मिन् । ल्युट् कृत् अकारान्तः