अमरकोशः


श्लोकः

स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः । सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृषि कृषिः स्त्रीलिङ्गः कर्षणम् । इक् कृत् इकारान्तः
2 पाशुपाल्य पाशुपाल्यम् नपुंसकलिङ्गः पशून् पालयति । अण् कृत् अकारान्तः
3 वाणिज्य वाणिज्यम् नपुंसकलिङ्गः कर्म भावो वा । षञ् तद्धितः अकारान्तः
4 सेवा सेवा स्त्रीलिङ्गः सेवनम् । कृत् आकारान्तः
5 श्ववृत्ति श्ववृत्तिः स्त्रीलिङ्गः शुनो वृतिरिव शुन इव वृत्तिर्वा ॥ तत्पुरुषः समासः इकारान्तः
6 अनृत अनृतम् नपुंसकलिङ्गः न ऋतम् । तत्पुरुषः समासः अकारान्तः
7 कृषि कृषिः स्त्रीलिङ्गः इक् कृत् इकारान्तः
8 उञ्छ उञ्छः पुंलिङ्गः उञ्छनम् । घञ् कृत् अकारान्तः
9 शिल शिलम् नपुंसकलिङ्गः शिलनम् । कृत् अकारान्तः
7 ऋत ऋतम् नपुंसकलिङ्गः ऋच्छति वा । क्त कृत् अकारान्तः