अमरकोशः


श्लोकः

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते । अधीरे कातरः त्रस्ते भीरुभीरुकभीलुकाः ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अधृष्ट अधृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
2 शालीन शालीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शालाप्रवेशमर्हति । निपातनात् अकारान्तः
3 विलक्ष विलक्षः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विशेषेण लक्षयति । अच् कृत् अकारान्तः
4 विस्मयान्वित विस्मयान्वितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विस्मयेनाश्चर्येणान्वितः ॥ तत्पुरुषः कृत् अकारान्तः
5 अधीर अधीरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न धीरो धैर्यं यस्य ॥ तत्पुरुषः कृत् अकारान्तः
6 कातर कातरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईषत्तरति । अच् कृत् अकारान्तः
7 त्रस्त त्रस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्रस्यति । क्नुः कृत् अकारान्तः
8 भीरु भीरुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बिभेति । क्रु कृत् उकारान्तः
9 भीरुक भीरुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बिभेति । क्रुकन् कृत् अकारान्तः
10 भीलुक भीलुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बिभेति । क्लुकन् कृत् अकारान्तः