अमरकोशः


श्लोकः

आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी । गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आपन्नसत्वा आपन्नसत्वा स्त्रीलिङ्गः आपन्नः सत्त्वो जन्तुरनया, अस्यां वा ॥ बहुव्रीहिः समासः आकारान्तः
2 गुर्विणी गुर्विणी स्त्रीलिङ्गः गुरुर्दुर्जरोऽलघुर्वा गर्भोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः
3 अन्तर्वत्नी अन्तर्वत्नी स्त्रीलिङ्गः अन्तरस्त्यस्यां गर्भः । मतुप् तद्धितः ईकारान्तः
4 गर्भिणी गर्भिणी स्त्रीलिङ्गः गर्भोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः
5 गाणिक्य गाणिक्यम् नपुंसकलिङ्गः गणिकानां समूहः । यञ् तद्धितः अकारान्तः
6 गार्भिण गार्भिणम् नपुंसकलिङ्गः गर्भिणीनां समूहः । अण् तद्धितः अकारान्तः
7 यौवत यौवतम् नपुंसकलिङ्गः युवतीनां समूहः । अण् तद्धितः अकारान्तः