अमरकोशः


श्लोकः

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे । उक्तं भाषितमुदितञ्जल्पितमाख्यातमभिहितं लपितम् ॥ १०७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्यक्त त्यक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्यज्यते स्म क्त कृत् अकारान्तः
2 हीन हीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हीयते स्म क्त कृत् अकारान्तः
3 विधुत विधुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विधूयते स्म क्त कृत् अकारान्तः
4 समुज्झित समुज्झितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समुज्झ्यते स्म क्त कृत् अकारान्तः
5 धूत धूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धूयते स्म क्त कृत् अकारान्तः
6 उत्सृष्ट उत्सृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उत्सृज्यते स्म क्त कृत् अकारान्तः
7 उक्त उक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उच्यते स्म क्त कृत् अकारान्तः
8 भाषित भाषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भाष्यते स्म क्त कृत् अकारान्तः
9 उदित उदितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्यते स्म क्त कृत् अकारान्तः
10 जल्पित जल्पितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जल्प्यते स्म क्त कृत् अकारान्तः
11 आख्यात आख्यातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आख्यायते स्म क्त कृत् अकारान्तः
12 अभिहित अभिहितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिधीयते स्म क्त कृत् अकारान्तः
13 लपित लपितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लप्यते स्म क्त कृत् अकारान्तः