अमरकोशः


श्लोकः

पतत्रिपत्त्रिपतगपतत्पत्त्ररथाण्डजाः । नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पतत्रिन् पतत्री पुंलिङ्गः पतत्त्रमस्त्यस्य । इनि तद्धितः नकारान्तः
2 पत्रिन् पत्री पुंलिङ्गः पत्त्रमस्त्यस्य । इनि तद्धितः नकारान्तः
3 पतग पतगः पुंलिङ्गः पतेन पक्षेण गच्छति । कृत् अकारान्तः
4 पतत् पतत् पुंलिङ्गः पतति । शतृ कृत् तकारान्तः
5 पत्ररथ पत्ररथः पुंलिङ्गः पत्त्रं पतत्त्रं रथ इव यस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 अण्डज अण्डजः पुंलिङ्गः अण्डाज्जायते स्म । कृत् अकारान्तः
7 नगौकस् नगौकाः पुंलिङ्गः नगो वृक्षः, नगे वा ओको यस्य । बहुव्रीहिः समासः सकारान्तः
8 वाजिन् वाजी पुंलिङ्गः वाजाः पक्षाः सन्त्यस्य । इनि तद्धितः नकारान्तः
9 विकिर विकिरः पुंलिङ्गः विकिरति । कृत् अकारान्तः
10 वि विः पुंलिङ्गः वाति । इण् उणादिः इकारान्तः
11 विष्किर विष्किरः पुंलिङ्गः वाति । कृत् अकारान्तः
12 पतत्रि पतत्रिः पुंलिङ्गः पतति । अत्रिन् उणादिः इकारान्तः